पूर्वम्: ३।३।१५८
अनन्तरम्: ३।३।१६०
 
सूत्रम्
लिङ् च॥ ३।३।१५९
काशिका-वृत्तिः
लिङ् च ३।३।१५९

इच्छार्थेषु समानकर्तृकेषु धातुषु उपपदेषु धातोः लिङ् प्रत्ययो भवति। भुञ्जीय इति इच्छति। अधीयीयेति इच्छति। क्रियातिपत्तौ लृङ् भवति। योगविभाग उत्तरार्थः।
न्यासः
लिङ् च। , ३।३।१५९

"भुञ्जीयाधीय" इति। "इटोऽत्" ३।४।१०६। किमर्थं पुनरिदमुच्यते, यावता वासरूपविधिनैवात्र लिङ् भविष्यति? नैतदस्ति;लिङलोटोरपवादत्वाद् बाधकयोः प्राप्तयोस्तद्वबाधनार्थस्तुमुन्, विधीयते। तेन बाधितत्वाद्यथा लोड् न भवति, तथा लिङ्गपि न स्यात्। तसमाल्लिङविधानार्थमिदमुच्यते। "योगविभाग उत्तरार्थः" इति। उत्तरसूत्रे लिङ एवानुवृत्तिर्यथा स्यात्, तुमुनो मा भूत्॥
बाल-मनोरमा
लिङ् च ६३८, ३।३।१५९

लिङ् च। समानकर्तृकेष्विति, इच्छार्थेष्विति चानुवर्तते। तदाह-- समानेत्यादि। भुञ्जीयेतीच्छतीति। अत्र भोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम्। "समानकर्तृकेषु इच्छार्थेष्वि"ति लोटो निवृत्त्यर्थमिदं सूत्रम्। क्रियातिपत्तौ तु भविष्यति नित्यं लृङ्, भूते चेत्यधिकारः संपूर्णः। इच्छार्थेभ्यो। लिङित्येवानुवर्तते। समानकर्तृकेष्विति तु निवृत्तम्। तत् सूचयन्नुदाहरति-- इच्छेत् इच्छतीति। "विधिनिमन्त्रणे"ति बूधातौ व्याख्यातमप सूत्रकर्मप्राप्तत्वात्समारितम्। एवं लोडिति। लोट् चेति विध्यादिषु विहितो लोडप्येवमुदाहर्तव्य इत्यर्थः।

तत्त्व-बोधिनी
लिङ् च ५२९, ३।३।१५९

लिङ् च। "समानकर्तृकेषु तुमुन्नि"त्यनेन "इच्छार्थेषु लिङ्लोटौ" इति विहितयोर्लिङ्लोटोर्बाधे प्राप्ते लिङः प्रतिप्रसवार्थं सूत्रम्। न चाऽत्र वासरूपविधिना लिङ्लोटोर्नित्यं बाधा नेति शङ्क्यम्, क्तल्युट्तुमुन्खलर्थेषु तदभावात्। अथाऽपि वासरूपविधिः स्यात्, एवमपि लिहेव यता स्याल्लोट् माभूदित्येवमर्थं तदारब्धव्यमेव। क्रियातिपत्तौ लृङ् प्राग्वत्।