पूर्वम्: ३।३।१५९
अनन्तरम्: ३।३।१६१
 
सूत्रम्
इच्छार्थेभ्यो विभाषा वर्तमाने॥ ३।३।१६०
काशिका-वृत्तिः
इच्छार्थेभ्यो विभाषा वर्तमाने ३।३।१६०

इछार्थेभ्यो धतुभ्यो वर्तमाने काले विभाषा लिङ् प्रत्ययो भवति। लटि प्राप्ते वचनम्। इच्छति, इच्छेत्। वष्टि, उश्यात्। कामयते, कामयेत।
तत्त्व-बोधिनी
इच्छार्थेभ्यो विभाषा वर्तमाने ५३०, ३।३।१६०

इच्छार्थेभ्यः। इच्छार्थेभ्यः किम्?। पचति गच्छति।