पूर्वम्: ३।३।१६४
अनन्तरम्: ३।३।१६६
 
सूत्रम्
स्मे लोट्॥ ३।३।१६५
काशिका-वृत्तिः
स्मे लोट् ३।३।१६५

प्रैषादिषु ऊर्ध्वमौहूर्तिके इति वर्तते। सम्शब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिके ऽर्थे वर्तमानाद् धातोः लोट् प्रत्ययो भवति। लिङ्कृत्यानाम् अपवादः। ऊर्ध्वं मुहूर्ताद् भवान् कटं कओर्तु स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म।
न्यासः
स्मे लोट्। , ३।३।१६५

"लिङकृत्यानामपवादः"इति। अनन्तर सूत्र विहितानाम्॥
बाल-मनोरमा
स्मे लोट् ६४१, ३।३।१६५

स्मे लोट्। पूर्वसूत्रेति। तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः। तदाह-- लिङः कृत्यानां चापवाद इति।

तत्त्व-बोधिनी
स्मे लोट् ५३३, ३।३।१६५

पूर्वसूत्रस्यविषय इति। प्रैषादयः, ऊध्र्वमौहूर्तिके इति चानुवर्तत इति भावः।