पूर्वम्: ३।३।१६५
अनन्तरम्: ३।३।१६७
 
सूत्रम्
अधीष्टे च॥ ३।३।१६६
काशिका-वृत्तिः
अधीष्टे च ३।३।१६६

स्मे इति वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दे उपपदे ऽधीष्टे गम्यमाने धातोः लोट् प्रत्ययो भवति। लिङो ऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि।
न्यासः
अधीष्टे च। , ३।३।१६६

"लिङोषऽपवादः"इति। विध्यादिसूत्रेण प्राप्तस्य। "अध्यापय"इति। सेर्हिरादेशः ३।४।८७, तस्य "अतो हेः" ६।४।१०५ इति लुक्। "जुहुधि"इति। "हुझल्भ्यो हेर्धिः" ६।४।१०१ इति धिरादेशः॥
बाल-मनोरमा
अधीष्टे च ६४२, ३।३।१६६

अधीष्टे च। लोट् स्यादिति। अधीष्टे विहितस्य लिङोऽपवादः। अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम्। त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः। "स्मे लोडधीष्टेचे"त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः। "कालसमयेलासु तुमु"न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते।

तत्त्व-बोधिनी
अथीष्टे च ५३४, ३।३।१६६

अधीष्टे च। लिङोऽपवादः। योगविभास्तु ऊध्र्वमौहूर्तिकाऽननुवृत्त्यर्थः।