पूर्वम्: ३।३।१६६
अनन्तरम्: ३।३।१६८
 
सूत्रम्
कालसमयवेलासु तुमुन्॥ ३।३।१६७
काशिका-वृत्तिः
कालसमयवेलासु तुमुन् ३।३।१६७

कालादिषु उपपदेसु धातोः तुमुन् प्रत्ययो भवति। कालो भोक्तुम्। वेला भोक्तुम्। इह कस्मान् न भवति, कालः पचति भूतानि इति? प्रैषादिग्रहणम् इह अभिसम्बध्यते। इह कस्मान् न भवति,कालो भोजनस्य? वासरूपेन ल्युडपि भवति। उक्तम् इदम्, स्त्र्यधिकारात् परत्र वासरूपविधिरनित्यः इति।
लघु-सिद्धान्त-कौमुदी
कालसमयवेलासु तुमुन् ८५३, ३।३।१६७

कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥
न्यासः
कालसमयवेलासु तुमुन्। , ३।३।१६७

"प्रैषादिग्रहणमिह सम्बध्यते" इति।न चेदिह प्रैषादयो गम्यन्ते, तेन तत्र न भवतीत्यभिप्रायः। कालो भोजनस्येत्युक्ते तस्याद् भङ्क्तां भवानिति प्रैषो गम्यते। ततश्च प्रैषादिग्रहणेऽनुवत्र्तमानेऽपीह प्राप्नोतीत्यभिप्रायेणाह--"इह कस्मान्न भवति" इत्यादि। स्यादेत्-- प्रैषादि कृत्यविधानाज्ज्ञापकात् स्त्र्यधिकारात् परेणापि वासरूपविधिर्नास्तीति, किं तर्हि? अनित्यः।ततः क्वचिद्भवति। एतच्च "एवं तर्हेतञ्ज्ञापयति" (३।३।१६३ का।वृ) इत्यादिना प्रागेवाभिहितम्॥