पूर्वम्: ३।३।१७३
अनन्तरम्: ३।३।१७५
 
सूत्रम्
क्तिच्क्तौ च संज्ञायाम्॥ ३।३।१७४
काशिका-वृत्तिः
क्तिच्क्तौ च संज्ञायाम् ३।३।१७४

आशिषि इत्येव। आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत् संज्ञा गम्यते। तनुतात् तन्तिः। सनुतात् सातिः। भवतात् भूतिः। मनुतात् मन्तिः। क्तः खल्वपि देवा एनं देयासुः देवदत्तः। सामान्येन विहितः क्तः पुनरुच्यते, क्तिचा बाधा मा भूतिति। चकारो विशेषणार्थः, न क्तिचि दीर्घश्च ६।४।३९ इति।
न्यासः
क्तिच्क्तौ च संज्ञायाम्। , ३।३।१७४

"समुदायेन"इति। प्रकृतिप्रत्ययसमुदायेन। एतेन समुदायोपाधितां संज्ञाया दर्शयति। "तन्तिः"इति। "तनु विस्तारे"(धा।पा।१४६३), अत्र "अनुनासिकस्य क्विझलोः क्ङिति"६।४।१५ इति दीर्घः प्राप्नोति, "अनुदात्तोपदेश"६।४।३७ इत्यादिनानुसिकलोपश्च; तदुभयं "न क्तिचि दीर्घश्च" ६।४।३९ इति निषिध्यते। "सातिः"इति। "षणु दाने"(धा।पा।१४६४), "जनसनखनां सञ्झलोः"६।४।४२ इत्यात्त्वम्। "देवदत्तः"इति। डुदाञो निष्ठायाम् "दो दद् घोः"७।४।४६ इति ददादेशः, "खरि च"८।४।५४ इति चत्र्वम्॥
तत्त्व-बोधिनी
क्तिच्क्तौ च संज्ञायाम् १५८३, ३।३।१७४

क्तिच्क्तौ। क्तिचश्चकारो "न क्तिची"ति विशेषणार्थः। "न क्त्वा" वित्युक्ते हि क्तिनोऽपि ग्रहणं स्यादिति भावः। तत्र एकानुबन्धपरिभाषयैव क्तिनो व्यावृत्तिसिद्धेरिति हरदत्तः। यत्तु वदन्ति--"तितुत्रे"त्यत्र सामान्यग्रहणार्थश्चकारः। अन्यथा एकानुबन्धत्वादस्यैव ग्रहणं स्यान्न तु क्तिन इति, तद्रभसात्, "तितुत्रे"ति सूत्रेऽनुबन्धविशिष्टरूपानुच्चारणेनैकानुबन्धपरिभाषाया उक्तिसंभवस्यैवाऽभावात्। #एतेन "तितुत्रे"ति सूत्रे एकानुबन्धत्वात्तिबेव गृह्रते न त्वयं क्तिच्। ततश्च रोदतीति रूपं न स्यादिति शङ्काप्यपास्ता। भूतिरिति। यद्यपीह परत्वात् "श्र्युकः किति" इत्येवेण्निषेधोन्याय्यस्तथापि वन्तितन्त्योरिण्निषेधार्थमावश्यकत्वात्फले विशेषाऽभावाच्च "तितुत्रे"त्युपन्यस्तम्।