पूर्वम्: ३।३।१७४
अनन्तरम्: ३।३।१७६
 
सूत्रम्
माङि लुङ्॥ ३।३।१७५
काशिका-वृत्तिः
माङि लुङ् ३।३।१७५

माङि उपपदे धातोः लुङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। मा कार्षीत्। मा हार्षीत्। कथम् मा भवतु तस्य पापम्, मा भविष्यति इति? असाधुरेव अयम्। केचिदाहुः, अङिदपरो माशब्दो विद्यते, तस्य अयं प्रयोगः।
लघु-सिद्धान्त-कौमुदी
माङि लुङ् ४३७, ३।३।१७५

सर्वलकारापवादः॥
न्यासः
माङि लुङ्। , ३।३।१७५

"मा कर्षित्" इति। "न माङ्योगे" ६।४।७४ इत्यडागमाभावः॥
बाल-मनोरमा
माङि लुङ् ६७, ३।३।१७५

माङि लुङ्। माङि प्रयुज्यमाने धातोर्लुङ् स्यादित्यर्थः। ननु लुङित्युदाह्मतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह-- सर्वलकारापवाद इति। मास्त्वित्यादौ तु "मा" इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः। आङ्()माङोश्चे"ति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाछन्द इत्यत्र तुङ्न भवतीत्युक्तम्। माशब्दस्याऽव्ययान्तरस्य सत्त्वे तु तदेवोदाह्यियेत। मास्त्क्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये।

तत्त्व-बोधिनी
माङि लुक् ५१, ३।३।१७५

सर्वलकारापवाद इति। मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव, न तु माङित्याहुः।