पूर्वम्: ३।३।१७५
अनन्तरम्: ३।४।१
 
सूत्रम्
स्मोत्तरे लङ् च॥ ३।३।१७६
काशिका-वृत्तिः
स्मौत्तरे लङ् च ३।३।१७६

स्मशब्दौत्तरे माङि उपपदे धातोः लङ् प्रत्ययो भवति, चकाराल् लुग् च। मा स्म करोत्। मा स्म कार्षीत्। मा स्म हरत्। मा स्म हार्षीत्। इति श्रीजयादित्यविरचितायाम् काशिकायां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः। तृतीयाध्यायस्य चतुर्थः पादः।
लघु-सिद्धान्त-कौमुदी
स्मोत्तरे लङ् च ४३८, ३।३।१७६

स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥
न्यासः
स्मोत्तरे लङ् च। , ३।३।१७६

स्मशब्द उत्तरमधिकं यस्य माङः स तथोक्तः॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्य तृतीयः पादः ---------------------------------------------- अथ तृतीयाध्यायस्य चतुर्थः पादः
बाल-मनोरमा
स्मोत्तरे लङ्च ६८, ३।३।१७६

स्मोत्तरे लङ् च। चकारान्माङि लुङित्यनुकृष्यते। "स्मे त्यव्ययमुत्तरं यस्मादिति विग्रहः। तदाह---स्मोत्तरे माङिति। अयमपि सर्वलकारापवादः।