पूर्वम्: ३।३।५६
अनन्तरम्: ३।३।५८
 
सूत्रम्
ऋदोरप्॥ ३।३।५७
काशिका-वृत्तिः
ऋ̄दोरप् ३।३।५७

ऋ̄कारान्तेभ्यः उवर्णान्तेभ्यः च अप् प्रत्ययो भवति। घञो ऽपवादः। पित्करणं स्वरार्थम्। करः गरः। शरः। उवर्णान्तेभ्यः यवः। लवः। पवः। दकारो मुखसुखार्थः। मा भूत्तादपि परः तपरः।
लघु-सिद्धान्त-कौमुदी
ॠदोरप् ८५९, ३।३।५७

ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। (घञर्थे कविधानम्)। प्रस्थः। विघ्नः॥
न्यासः
ऋदोरप्। , ३।३।५७

"पित्करणं स्वरार्थम्" इति। "अनुदात्तौ सुप्पितौ" ३।१।४ इत्यनुदात्तत्वं यथा स्यात्। "ऋदोरप्" इत्यत्र ऋकारस्तपरः स्यात्। एवं सति तादपि परस्तपरः इत्युकारोऽपि तस्य परः स्यात्। ततश्च "तपरस्तत्कालस्य" १।१।६९ इति परिभाषोपस्थानादिहैव स्यात्-- यवः,स्तव इति; लवः,पव इत्यत्र तु न स्यात्। दकारे तु "अण् सवर्णान् गृह्णाति-- "भुवः गृह्णाति" (व्या।पा।६६?) इति दीर्घादपि भवति। तस्मादुकारोऽयं सवर्णं गृह्णाति। अत्र च लिङ्गम्-- "भुवः प्रभवः" १।४।३१ इति निर्देशः।तपरे तु भवतेरप् न स्यात्, ततश्च "प्रभवः"इति निर्देशो नोपपद्यते। तस्य तु दकारस्य मुखसुखार्थत्वादन्यत् प्रयोजनं न सम्भवतीत्येतत्सर्वमालोच्याह-- "दकारो मुखसुखार्थः" इति॥
तत्त्व-बोधिनी
ऋदोरप् १५४२, ३।३।५७

ऋदोरप्। ॠच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम्। "ॠदो"रित्ययं न तकारः, किं तर्हि?। दकारः। "निरभ्योः पूल्वः" इत्यपवादतया घञ्विधानाज्ज्ञापकाद्दीर्घान्तादप्युदाहरति--लवः। पव इति। घञचोरपवाद इति। "निश्चय" इत्यत्राऽचः प्राप्तिरन्यत्र घञ इति विवेकः। हस्तादाने तु प्रपूर्वकाच्चिनोतेर्घञुदाह्मतः।