पूर्वम्: ३।३।२३
अनन्तरम्: ३।३।२५
 
सूत्रम्
श्रिणीभुवोऽनुपसर्गे॥ ३।३।२४
काशिका-वृत्तिः
श्रिणीभुवो ऽनुपसर्गे ३।३।२४

श्रि णी भू इत्येतेभ्यो धातुभ्यो ऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। श्रायः। नायः। भावः। अनुपसर्गे इति किम्? प्रश्रयः। प्रणयः। प्रभवः। कथं प्रभावो राज्ञाः? प्रकृष्टो भावः इति प्रादिसमासो भविष्यति। कथं च नयो राज्ञः? कृत्यल्युटो बहुलम् ३।३।११३ इति अच् भविष्यति।
न्यासः
श्रिणीभुवोऽनुपसर्गे। , ३।३।२४

"अनुपसर्गेभ्यः"इति। अविद्यमान उपसर्ग एषामिति बहुव्रीहिः "अनुपसर्गेभ्यः" इति पञ्चम्यन्तेन विवरणं कुर्वन् सूत्रेऽनुपसर्ग इति सुब्व्यत्ययेन एषा सप्तमीति दर्शयति। "कथं प्रभावो राज्ञः" इति। अनुपसर्गवचनादिह प्रशब्द उपसर्ग उपपदे न भवितव्यमिति भावः। "{कथं च--काशिका} कथं नयो राज्ञः" इति। अनुपसर्गाद्घञात्र भवितव्यमिति मन्यते॥
तत्त्व-बोधिनी
श्रिणीभुवोऽनुपसर्गे १५२२, ३।३।२४

राज्ञो नय इति। णीञ् प्रापणे इत्यस्मादचो यत्।