पूर्वम्: ३।३।२४
अनन्तरम्: ३।३।२६
 
सूत्रम्
वौ क्षुश्रुवः॥ ३।३।२५
काशिका-वृत्तिः
वौ क्षुश्रुवः ३।३।२५

वावुपपदे क्षु श्रु इत्येताभ्यां धातुभ्यां घञ् प्रत्ययो भवति। अपो ऽपवादः। विक्षावः। विश्रावः। वौ इति किम्? क्षवः। श्रवः।
न्यासः
वौ क्षुश्रुवः। , ३।३।२५

"विक्षावः"इति। "टुक्षु शब्दे" (धा।पा।१०३६)॥