पूर्वम्: ३।३।२६
अनन्तरम्: ३।३।२८
 
सूत्रम्
प्रे द्रुस्तुस्रुवः॥ ३।३।२७
काशिका-वृत्तिः
प्रे द्रुस्तुस्रुवः ३।३।२७

प्रशब्दे उपपदे द्रु स्तु स्रु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। प्रद्रावः। प्रस्तावः। प्रस्रावः। प्र इति किम्? द्रवः। स्तवः। स्रवः।
न्यासः
प्रे द्रुस्तुम्रुवः , ३।३।२७