पूर्वम्: ३।३।२५
अनन्तरम्: ३।३।२७
 
सूत्रम्
अवोदोर्नियः॥ ३।३।२६
काशिका-वृत्तिः
अवौदोर् नियः ३।३।२६

अव उतित्येतयोरुपपदयोः नयतेर् धातोः घञ् प्रत्ययो भवति। अवनायः। उन्नायः। कथम् उन्नयः पदार्थानाम्? कृत्यल्युटो बहुलम् ३।३।११३ इति अच् भविष्यति।
न्यासः
अवोदोर्नियः। , ३।३।२६

"उन्नायः" इति। "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति वाऽनुनासिकः। "कथमुन्नयः पदार्थानाम्" इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमित्यभिप्रायः॥