पूर्वम्: ३।२।७७
अनन्तरम्: ३।२।७९
 
सूत्रम्
सुप्यजातौ णिनिस्ताच्छिल्ये॥ ३।२।७८
काशिका-वृत्तिः
सुप्यजातौ णिनिस् ताच्छील्ये ३।२।७८

अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोः णिनिः प्रत्ययो भवति। उष्णभोजी। शीतभोजी। अजातौ इति किम्? ब्राह्मणानामन्त्रयिता। ताछ्हील्ये इति किम्? उष्णं भुङ्क्ते कदाचित्। सुपि इति वर्तमाने पुनः सुब्ग्रहणम् उपसर्गनिवृत्त्यर्थम्। उत्प्रतिभ्याम् आङि सर्तेरुपसङ्ख्यानम्। उदासारिण्यः। प्रत्यासारिण्यः। साधुकारिणि च। सधुकारी। साधुदायी। ब्रह्मणि वदः। ब्रह्मवादिनो वदन्ति।
लघु-सिद्धान्त-कौमुदी
सुप्यजातौ णिनिस्ताच्छील्ये ८०६, ३।२।७८

अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥
न्यासः
सुप्यजातौ णिनिस्ताच्छील्ये। , ३।२।७८

"ब्राआहृणानामन्त्रयिता" इति। "मत्रि गुप्तभाषणे" (धा।पा।१६७९), "इदितो नुम् धातोः" ७।१।५८ इति नुम्, चुरादिणिच्, ततः "तृन्" ३।२।१३५ इति ताच्छीलिकस्तृन्। "सुपि" इत्यादि। ननु च "सुपि" ३।२।४ इत्यनुवत्र्तमाने पुनः सुब्ग्रहणमनर्थकम्?नानर्थकम्; पूर्वकं हि सुब्ग्रहणमुपसर्गेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। अत उपसर्गनिवृत्त्यर्थं पुनः सुब्ग्रहणं क्रियते। "उत्प्रतिभ्याम्" इत्यादि। सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थ्तवादुपसर्गे न प्राप्नोतीति वचनम्। उत्प्रतिभ्यां परो य आङ,तस्मिन्नुपपदे सत्र्तेर्धातोरुपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। तत्रेदं प्रतिपादनम्-- "अन्येभ्योऽपि दृश्यन्ते" ३।२।७५ इत्यतोऽत्रापिशब्दः सर्वोपाधिव्यभिचारार्थोऽनुवत्र्तते, तेन "उदासारिण्यः"इत्यत्रोपसर्गे णिनिर्भवति। "साधुकारिणि च"इति। अताच्छील्यार्थ आरम्भः। चकारेणोपसंख्यानमित्यनुकृष्यते, तस्य प्रतिपादनमेवार्थः। प्रतिपादनं तु-- पूर्ववदपिशब्दं सर्वोपाधिव्यभिचारार्थमाश्रित्य कत्र्तव्यम्। अथ वा-- यदयम् "तच्छीलतद्धर्मत्साधुकारिषु" ३।२।१३४ इति तच्छीलेत्यभिधाय तत्साधुकारिग्रहणं करोरति,तज्ज्ञापयति--साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। "ब्राहृणि वदः" इति। अयमप्यताच्छील्यार्थ आरम्भः, जात्यर्थो वा। ताच्छील्येऽजातौ पूर्वेणैव सिद्धत्वात् वाऽसरूपनिवृत्त्यर्थो न हि भवति। ब्राहृआणं वदित "ब्राहृवादी"इति। णिनेर्णकारो वृद्ध्यर्थः। द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः॥
बाल-मनोरमा
सुप्यजातौ णिनिस्ताच्छील्ये ७९८, ३।२।७८

सुप्यजातौ। "सुपि स्थः" इत्यतः सुपीत्यनुवृत्तौ पुनः सुब्ग्रहणमुपसर्गेऽपि विधानार्थमम्()। अन्यथा "आतोऽनुपसर्गे" इत्यतोऽनुपसर्गे इत्यनुवर्तेत। तद्ध्वनयन्नुदाहरति-- उष्णभोजीति। उष्णभोजनशील इत्यर्थः। उपसर्गभिन्न एवेति। अनुपसर्ग इत्यनुवर्तते। सुब्ग्रहणं तु "सत्सूद्विषे"ति सूत्रादुपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः। उपसर्गभिन्न एवेति। अनुपसर्ग इत्यनुवर्तते। सुब्ग्रहणं तु "सत्सूद्विषे"ति सूत्रादुपसर्गेऽपीत्यनुवृत्तये इति भावः। उत्प्रतिभ्यामिति। उत्प्रतिभ्यां परे आङि प्रयुज्यमाने सति तत्पूर्वात्सर्तेर्णिनेरुपसङ्ख्यानमिति तदर्थः। उदासारिणी प्रत्यासारिणीत्युदाहरणम्। भाष्यविरोधादिति। सुब्ग्रहणमुपसर्गग्रहणाऽनुवृत्तिनिवृत्त्यर्थम्, उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरित्येव भाष्ये उदाह्मतत्वादिति भावः। तथा च "उत्प्रतिभ्यामाङि सत्र्ते"रिति वचं नादर्तव्यम्। भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः। अत एव "अनुगादिनष्ठ" गिति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम्। "उपसर्गभिन्न एव सुपि णिनि"रिति मतं शिष्टप्रयोगविरुद्धं चेत्याहु---- प्रसिद्धश्चोपसर्गेऽपि णिनिरिति। "इत्यादा"वित्यत्रान्वयः। साधुकारिणीति। कृञ्ग्रहणं सर्वधातूपलक्षणम्। साधुकारीत्यात्युदाहरणात्। ब्राहृणि वद इति। "णिनेरुपसङ्ख्यान"मिति शेषः। "णिनेरुपसङ्ख्यान"मिति शेषः। ननु "सुप्यजातौ" इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह-- अताच्छील्यार्थमिति। साधुदायीति। आतो युक्। ब्राहृवादीति। ब्राहृ - वेदः।

तत्त्व-बोधिनी
सुप्यजातौ णिनिस्ताच्छील्ये ६६१, ३।२।७८

उष्णभोजीति। उष्णं भोक्तुं शीलमस्य। आमन्त्रयितेति। मत्रि गुप्तपरिभाषणे, चुरादिराङ्पूर्वः। इदित्त्वान्नुम्, ताच्छील्यस्य विवक्षितत्वातृ()न्। अतएव "न लोके"ति निषेधात् "ब्राआहृणा"नित्यत्र कर्मणि षष्ठी न कृता। उपसर्गभिन्न एवेति। "सत्सूद्विषे"ति सूत्रे "उपसर्गेऽपी"त्युक्तत्वादुपसर्गभिन्नस्यैव सुपो लाभायाऽस्मिन्सूत्रे पुनः सुब्ग्रहणं कृतमिति भावः। भाष्यविरोधादिति। उक्तं च भाष्ये-- "सुबिति वर्तमाने पुनः सुब्गर्हणं किमर्थमनुपसर्ग इत्यव तदभूत्, इदं तु सुब्मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य" इति। अस्यायमाशयः--- "सत्सूद्विषे" ति सूत्रे "सुपि स्थः" इत्यतः सुपीत्यनुवर्तते, तच्चौपसर्गेतरपरम्, उपसर्गेऽपीति पृथगुक्तेः। तदिहानुवर्तमानमर्थाधिकारादुपसर्गेतरपरमेव स्यादिति। निष्कर्षे तु मा भूदिह सुब्वचनग्रहणम्, उपसर्गेऽपीत्यं शस्याप्यनुवृत्त्या निर्वाहात्। सर्वथापि सुब्मात्रे उपपदे णिनिर्नत्वनुपसर्ग एवेति सिद्धान्तः। एतच्च प्रायुङ्क्त-- लिङ्गशेषविधिव्र्यापी विशेषैर्यद्यबाधितः" इ [ ती] ति दिक्।

* साधुकारिण्युपसङ्ख्यानम्। साधुकारिणीति। एतच्च ज्ञापकसिद्धम्। "आ क्वे"रिति सूत्रे हि तच्चीलात्पृथक् साधुकारी गृह्रते, तच्च ताच्छील्यं विनापि णिनौ सत्येव सङ्गच्छते।

* ब्राहृणि वदः। ब्राहृणि वद इति। इदं तु वाचनिकमेव। अताच्छील्यार्थमिति। एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम्। यत्तु भट्टवार्तिके ब्राहृवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम्। "आ क्वे"रित्यधिकारे तु ब्राहृणि वदेर्णिनिविधायकं वचनं नास्त्येवेति कथमिदं सङ्गच्छेतेति चेत्, अत्राहुः-- भट्टापादानामयमाशयः-- "सुप्यजातौ" इति सूत्रेण ताच्छील्ये णिनिः। उपसङ्ख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः। "आवश्यकाधमण्र्ययोर्णिनि"रित्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न त्विह "आ क्वेट रिति सूत्रस्य व्यापारोऽस्तीति। ननु ब्राहृवादिनो वदन्ति इत्यत्र ब्राहृ वेद इति ब्राहृशब्दस्यापि जातिवाचकत्वात्कथमिह ताच्छील्ये णिनिरिति समर्थनमितिचेत्। अत्र नव्याः-- "सुप्यजातौ" इत्यत्र प्राणिजातिरेव पर्युदस्यते, ताच्छील्यसमभिव्याहारात्, "ब्राआहृणानामन्त्रयिते"प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति।