पूर्वम्: ३।३।२९
अनन्तरम्: ३।३।३१
 
सूत्रम्
कॄ धान्ये॥ ३।३।३०
काशिका-वृत्तिः
कृ̄ धान्ये ३।३।३०

उन्न्योः इति वर्तते। कृ̄ इत्येतस्माद् धातोरुन्न्योः उपपदयोः घञ् प्रतयो भवति, धान्यविषयश्चेद् धात्वर्थो भवति। विक्षेपार्थस्य किरतेर् ग्रहणं, न हिंसार्थस्य, अनभिधानातुत्कारो धान्यस्य। निकारो धान्यस्य। धान्ये इति किम्? भैक्ष्योत्करः। पुष्पनिकरः।
न्यासः
कृ धान्ये। , ३।३।३०

धान्यमिह प्रकृत्यर्थो वा स्यात्? प्रत्ययार्थो वा स्यात्? प्रकृत्यर्थस्तावन्नोपपद्यते;धान्यस्य द्रव्यत्वात् धातोश्च क्रियावाचित्वात्। प्रत्ययार्थस्तूपपद्यते धान्यम्;किन्तु प्रत्ययेनाबिहितत्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति। अथापि प्रयोगः स्यात्? एवमपि प्रत्ययर्थेऽन्तर्भूतत्वात् षष्ठी नोपपद्यते-- उत्कारो धान्यस्येति। सामानाधिकरण्यमेव प्रत्ययान्तेन स्यात्, एवं हि प्रत्ययर्थो भवति यदि प्रत्ययान्तेन सामानाधिकरण्यं भवति, यथा-- दृतिहरिः पशुरिति। तस्मान्नेदं प्रत्ययार्थः,नापि प्रकृत्यर्थः, अपि तु प्रकृत्यर्थविशेषणमिति हिंसार्थस्य" इति। "कृ हिंसायाम्" (धा।पा।१४९६) इत्यस्य ग्रहणं न भवति। किं कारणमित्याह-- "अनभिधानात्" इति। शब्दशक्तिस्वाभाव्यादुत्कारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा। यस्य चार्थः प्रत्ययान्तेनाभिधीयते तस्यैव ग्रहणं युक्तम्, नेतरस्य। "उत्कारो धान्यस्य" इति। विक्षेपो दान्यस्येत्यर्थः॥