पूर्वम्: ३।३।२८
अनन्तरम्: ३।३।३०
 
सूत्रम्
उन्न्योर्ग्रः॥ ३।३।२९
काशिका-वृत्तिः
उन्न्योर् ग्रः ३।३।२९

गृ̄ शब्दे, गृ̄ निगरणे, द्वयोरपि ग्रहणम्। उन्न्योरुपपदयोः गृ̄ इत्येतस्माद् धातोः घञ् प्रत्ययो भवति। उद्गारः समुद्रस्य। निगारो देवदत्तस्य। उन्न्योः इति किम्? गरः।
न्यासः
उन्न्योर्ग्रः। , ३।३।२९

"ॠदोरप्"३।३।५७ इतिप्राप्तस्यायमपवादः। उत्तरत्रापि ॠकारान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः। "द्वयोरपि ग्रहणम्" इति। विशेषानुपादानात्॥