पूर्वम्: ३।३।३९
अनन्तरम्: ३।३।४१
 
सूत्रम्
हस्तादाने चेरस्तेये॥ ३।३।४०
काशिका-वृत्तिः
हस्तादाने चेरस्तेये ३।३।४०

हस्तादाने गम्यमाने चिनोतेर् धातोः घञ् प्रत्ययो भवति, न चेत् स्तेयं चौर्यं भवति। हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते। पुष्पप्रचायः। फलप्रचायः। हस्तादने इति किम्? वृक्षशिखरे फलप्रचयं करोति। अस्तेये इति किम्? फलप्रचयश्चौर्येण। उच्चयस्य प्रतिषेधो वक्तव्यः
न्यासः
हस्तादाने चेरस्तेये। , ३।३।४०

"हस्तादानग्रहणेन" इत्यादि। हस्तेनोपायान्तरनिरपेक्षेणोपादानम् = प्रत्यासत्तिः, ततएव वस्तुनो भवति, तस्माद्धस्तादानग्रहणेन ग्राह्रस्य वस्तुनः प्रत्यासन्नतोपलक्ष्यते; हस्तादानशब्दाभिधेयस्यार्थस्य प्रत्यासत्तेः साहचर्यात्। "वृक्षशिखरे" इत्यादि। वृक्षशिखरग्रहणेनादेयस्याप्रत्यासन्नत्वं सूचयति॥