पूर्वम्: ३।३।४०
अनन्तरम्: ३।३।४२
 
सूत्रम्
निवासचितिशरीरोपसमाधानेष्वादेश्च कः॥ ३।३।४१
काशिका-वृत्तिः
निवासचितिशरीरौपसमाधानेष्वादेश् च कः ३।३।४१

चेः इत्येव। निवसन्ति अस्मिनिति निवासः। चीयते ऽसौ चितिः। पाण्यादिसमुदायः शरीरम्। राशीकरनम् उपसमाधानम्। एतेष्वर्थेषु चिनोतेः घञ् प्रत्ययः भवति, धातोरादेश्च ककार आदेशः। निवासे तावत् चिखल्लिनिकायः। चितौ आकायम् अग्निं चिन्वीत। शरीरे अनित्यकायः। उपसमाधाने महान् गोमयनिकायः। एतेषु इति किम्? चयः। इह कस्मान् न भवति महान् काष्ठनिचयः? बहुत्वम् अत्र विवक्षितं न उपसमाधानम्।
लघु-सिद्धान्त-कौमुदी
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ८५७, ३।३।४१

एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥
न्यासः
निवासचितिशरीरोपसमाधानेषवादेश्च कः। , ३।३।४१

"राशीकरणम्" इति। प्रकीर्णस्यैकत्रकरणमित्यर्थः। "चिखल्लिनिकायः" इति। चिखल्लिर्जनपदः, तस्य निकायः = निवासः। अथादिग्रहणं किम्? अर्थस्य मा भूत्। यद्येवम्, "चः कः" इति वक्तव्यम्? एवं तर्हि यदा यङ्लुगन्तादुत्पद्यते तदा "{अन्त्याभावे अन्त्यसदेशस्य" शाक।प।}अन्त्यविकारेऽन्त्यसदेशस्य" (शाक।प।५६) इति द्वितीयस्य चकारस्य मा भूदित्यवमर्थमादिग्रहणम्॥
तत्त्व-बोधिनी
निवासचितिशरीरोपसमाधानेष्वादेश्च कः १५२८, ३।३।४१

आकायमिति। आचीयन्तेऽस्मिन्निष्टका इत्याकायम्। अधिकरणे घञ्। अग्निम् = अग्निस्थानविशेषं, चिन्वीत = चयनेन निष्पादयेदिति श्रुत्यर्थः।