पूर्वम्: ३।३।४१
अनन्तरम्: ३।३।४३
 
सूत्रम्
संघे चानौत्तराधर्ये॥ ३।३।४२
काशिका-वृत्तिः
सङ्घे च अनौत्तराधर्ये ३।३।४२

चेः इत्येव। प्राणिनां समुदायः सङ्घः। स च द्वाभ्यां प्रकाराभ्यां भवति। एकधर्मसमावेशेन, औत्तराधर्येण वा। तत्र औत्तराधर्यपर्युदासादितरो गृह्यते। सङ्घे वाच्ये चिनोतेर् धातोः घञ् प्रत्ययो भवति आदेश्च कः। भिक्षुकनिकायः। ब्राह्मणनिकायः। वैयाकरणनिकायः। अनौत्तराधर्ये इति किम्? सूकरनिचयः। प्राणिविषयत्वात् सङ्घस्य इह न भवति। कृताकृतसमुच्चयः। प्रमाणसमुच्चयः।
न्यासः
सङ्घे चानौत्तराधर्ये। , ३।३।४२

"एकधर्मनिवेशेन" इति। एकधर्मानुगमनेनेत्यर्थः॥
तत्त्व-बोधिनी
सङ्घे चाऽनौत्तराधर्ये। १५२९, ३।३।४२

सङ्घे चानौत्तराधर्ये। उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्यम्। सूकरेति। स्तनपानार्थंमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम्। यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि घञ्।