पूर्वम्: ३।३।४६
अनन्तरम्: ३।३।४८
 
सूत्रम्
परौ यज्ञे॥ ३।३।४७
काशिका-वृत्तिः
परौ यज्ञे ३।३।४७

परिशब्दे उपपदे ग्रहेः घञ् प्रत्ययो भवति, यज्ञविषयश्चेत् प्रत्ययान्ताभिधेयः स्यात्। उत्तरपरिग्राहः। अधरपरिग्राहः। यज्ञे इति किम्? परिग्रहो देवदत्तस्य।
न्यासः
परौ यज्ञे। , ३।३।४७