पूर्वम्: ३।३।४७
अनन्तरम्: ३।३।४९
 
सूत्रम्
नौ वृ धान्ये॥ ३।३।४८
काशिका-वृत्तिः
नौ वृ धान्ये ३।३।४८

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। निशब्दे उपपदे वृ इत्येतस्माद् धातोः धान्यविशेषे ऽभिधेये घञ् प्रत्ययो भवति। अपो ऽपवादः। नीवारा नाम व्रीहयो भवन्ति। धान्ये इति किम्? निवरा कन्या।
न्यासः
नौ वृ धान्ये। , ३।३।४८

"अपोऽपवादः"इति। "ग्रहवृदृ" ३।३।५८ इत्यादिना प्राप्तस्य। "नीवारा नाम व्रीहयो भवन्ति" इति। एतेन यद्यपि धान्यशब्देन सामान्यवाचिनायं व्युत्पाद्यते, तथापि प्रत्ययान्तं शब्दशक्तिस्वाभाव्याद्धान्यविशेष ए वत्र्तत इति दर्शयति। "उपसर्गस्यघञि" ६।३।१२१ इति दीर्घत्वम्। "निवरा" इति। निव्रियत इति निवरा। स्वभावेनाबन्तमपि स्त्रियां वत्र्तते। एवञ्च यद् घञबन्तो घाजन्तश्चेति लिङ्गाधिकारेऽबन्तस्य पुंल्लिङ्गताप्रतिपादनं तत् प्रायिकं वेदितव्यम्॥