पूर्वम्: ३।३।४८
अनन्तरम्: ३।३।५०
 
सूत्रम्
उदि श्रयतियौतिपूद्रुवः॥ ३।३।४९
काशिका-वृत्तिः
उदि श्रयतियौतिपूद्रुवः ३।३।४९

उच्छब्दे उपपदे श्रयत्यादिभ्यो घञ् प्रतययो भवति। अजपोरपवादः। उच्छ्रायः। उद्यावः। उत्पावः। उद्द्रावः। कथं पतनान्ताः समुच्छ्रयाः? वक्ष्यमाणं विभाषाग्रहणम् इह सिंहावलोकितन्यायेन सम्बध्यते।
न्यासः
उदि श्रयतियौतिपूद्रुवः। , ३।३।४९

"अजपोरपवादः" इति। श्रयतेरिवर्णान्तत्वादचोऽपवादः, यौतिप्रभृतीनां तूवर्णान्तत्वादपः। "कथं पतनान्ताः समुच्छ्रया इति" इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमिति भावः। "वक्ष्यमाणम्" इत्यादि परिहारः। यदि तर्हि विभाषाग्रहणमिह सम्बध्यते, यौतिप्रभृतीनामपि विकल्पेन प्रत्ययः प्रसज्यते? व्यवस्थितविभाषया न प्रसज्यत इत्यदोषः॥