पूर्वम्: ३।३।४
अनन्तरम्: ३।३।६
 
सूत्रम्
विभाषा कदाकर्ह्योः॥ ३।३।५
काशिका-वृत्तिः
विभाषा कदाकर्ह्योः ३।३।५

कदा कर्हि इत्येतयोः उपपदयोर् विभाषा भविष्यति काले धातोः लट् प्रत्ययो भवति। कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता। कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्टा।
न्यासः
विभाषा कदाकह्योः। , ३।३।५

"कदा भोक्ता" इति। लुट्। ननु च भविष्यतीत्यनुवृत्तेर्लृट एव विषये भवितव्यम्, न लुटः। ततो लृडेव पक्षे युक्त उदाहर्तुम्, तत्कथं लुडप्युदाह्मतः? एवं मन्यते-- "अनद्यतने लुट्" ३।३।१५ इत्यत्र "विभाषा कदाकर्ह्योः" इत्यस्यानुवृत्तेर्लृटो विषये विभाषा लुटा भवितव्यमिति। "कर्हि भोक्ष्यते" इति। लृट्। ननु च कर्हिशब्दः "अनद्यतने र्हिलन्यतरस्याम्"५।३।२१ इत्यनद्यतने व्युत्पादितः, तदसौ यत्र प्रयुज्यते ततर्ानद्यतन इव कालः सम्भवति, तत्कुतो लृटः प्राप्तिः, "अनद्यतने लुट्"(३।३।१५) इति लुटैव पक्षे भवितव्यम्? नैतदस्ति; यस्माद्भोक्ष्यत इत्येतत् पदं भविष्यत्काल एव वत्र्तते। अनद्यतनकालावगतिस्तु कर्हिशब्दसन्निधाने सति वाक्याद्भवति। न च वाक्यगम्येऽर्थे लृड्भवति। तथा हि पदमिह संस्क्रियते, न च पदसंस्कारे वाक्यगम्योऽर्थ उपयुज्यते। तस्माद्भविष्यत्सामान्ये विवक्षिते लृड्भवति, भविष्यति विशेषेऽप्यनद्यतने विवक्षिते लुडिति॥
बाल-मनोरमा
विभाषा कदाकर्ह्योः ६०८, ३।३।५

विभाषा कदाकर्ह्योः। "भविष्यति लड्वा स्या"दिति शेषपूरणम्। लडभावपक्षे लुटलृटौ यथाप्राप्तम्। तदाह--कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति। न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट्। "अनद्यतने र्हिलन्यतरस्या"मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः।

तत्त्व-बोधिनी
विभाषा कदाकर्ह्योः ४९९, ३।३।५

विभाषा। ननु "अनद्यतने र्हिलन्यतरस्या"मित्यनद्यने किमो र्हिल्विहितस्ततश्च कर्हियोगे लुटैव भाव्यमिति कथमुदाह्यियते--कर्हि भोक्ष्यत इति। अत्राहुः-- भविष्यत्सामान्ये भोक्ष्यते इति लृट्। कर्हियोगे तु अनद्यतनावगतिर्लक्षणयेति। भोक्ता वेति। ननु भविष्यत्सामान्येऽयं लड्विहितस्तस्य लुटा सह कथं विकल्पो, विषयभेदादिति चेत्, अत्राहुः-- "अनद्यतने लु"डित्यत्र "विभाषा कदे"त्यादीनि कानिचित्सूत्राणीष्टानुरोधेनानुवर्तन्ते तेन, लुड्विषयेऽपि लड्भवति, न त्वनद्यने लुटा लड् बाध्यत इति।