पूर्वम्: ३।३।६२
अनन्तरम्: ३।३।६४
 
सूत्रम्
यमः समुपनिविषु॥ ३।३।६३
काशिका-वृत्तिः
यमः समुपनिविषु च ३।३।६३

अनुपसर्गे वा इति वर्तते। सम् उप नि वि इत्येतेषु उपपदेषु अनुपसर्गे ऽपि यमेर् वा अप् प्रत्ययो भवति। घञो ऽपवादः। संयमः, संयामः। उपयमः, उपयामः। नियमः, नियामः। वियमः, वियामः। अनुपसर्गात् खल्वपि यमः, यामः।
न्यासः
यमः समुपनिविषु च। , ३।३।६३