पूर्वम्: ३।३।६३
अनन्तरम्: ३।३।६५
 
सूत्रम्
नौ गदनदपठस्वनः॥ ३।३।६४
काशिका-वृत्तिः
नौ गदनदपठस्वनः ३।३।६४

अपित्येव। निशब्दे उपपदे गद नद पठ स्वन इत्येतेभ्यः धतुभ्यः वा अप् प्रत्ययो भवति। घञो ऽपवादः। निगदः, निगादः। निनदः, निनादः। निपठः, निपाठः। निस्वनः, निस्वानः।
न्यासः
नौ गदनदपठस्वनः। , ३।३।६४