पूर्वम्: ३।३।६५
अनन्तरम्: ३।३।६७
 
सूत्रम्
नित्यं पणः परिमाणे॥ ३।३।६६
काशिका-वृत्तिः
नित्यं पणः परिमाणे ३।३।६६

पण व्यवहारे स्तुतौ च, अस्माद् धातोर् नित्यम् अप् प्रत्ययो भवति परिमाणे गम्यमाने। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। मूलकपणः। शाकपणः। संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर् बध्यते, तस्य इदम् अभिधानम्। परिमाणे इति किम्? पाणः।
न्यासः
नित्यं पणः परिमाणे। , ३।३।६६

"परिमितः"इति। परिमितो मितः परिच्छिन्नः। द्वयोस्त्रयाणां चतुर्णां वा मूलकादिद्रव्याणां यो मुष्टिः = परिमाणविशेषो बध्यते संव्यवहारार्थः स "मूलकपणः" इत्यादिना शब्देनाभिधीयते॥
तत्त्व-बोधिनी
पर्याप्तिवचनेष्वलमर्थेषु १५११, ३।३।६६

पर्याप्तो भोक्तुमिति। भोक्तुं समर्थ इत्यर्थः।