पूर्वम्: ३।३।६६
अनन्तरम्: ३।३।६८
 
सूत्रम्
मदोऽनुपसर्गे॥ ३।३।६७
काशिका-वृत्तिः
मदो ऽनुपसर्गे ३।३।६७

मदेः धातोः अनुपसर्गातप् प्रत्ययो भवति। घजो ऽपवादः। विद्यामदः। धनमदः। कुलमदः। अनुपसर्गे इति किम्? उन्मादः। प्रमादः।
न्यासः
मदोऽनुपसर्गे। , ३।३।६७

"विद्यामदः"इति। विद्यया मदः। "कर्त्तुकरणे" २।१।३१ इत्यादिना समासः। "उन्मादः" इति। अत्रापि "कुगतिप्रादयः" २।२।१८ इति "व्यधजपोरनुपसर्गे" ३।३।६१ इत्यत्रैव मदिग्रहणे कत्र्तव्ये "मदोऽनुपसर्गे" इति सूत्रप्रणयनमस्य विधेरनित्यत्वाज्ञापनार्थम्, तेन माद इति सिद्धं भवति॥
तत्त्व-बोधिनी
मदोऽनुपसर्गे १५४७, ३।३।६७

मदो। अनुपसर्गे सुप्युपपदे नित्यमप् स्याद्भावादौ।