पूर्वम्: ३।३।६४
अनन्तरम्: ३।३।६६
 
सूत्रम्
क्वणो वीणायां च॥ ३।३।६५
काशिका-वृत्तिः
क्वणो वीणायां च ३।३।६५

नौ वा अनुपसर्गे इति वर्तते। क्वणतेः धातोः निपूर्वादनुपसर्गाच् च वीणायां वा अप् प्रत्ययो भवति। घञो ऽपवादः। सोपसर्गार्थं वीणाया ग्रहणम्। निक्वणः, निक्वाणः। अनुपसर्गात् क्वणः, क्वाणः। वीणायां खल्वपि कल्याणप्रक्वणा वीणा। एतेषु इति किम्? अतिक्वाणो वर्तते।
न्यासः
क्वणो वीणायाञ्च। , ३।३।६५

"सोपसर्गार्थं वीणाया ग्रहणम्" इति। यदि वीणाविषयेऽप्यनुसर्गादेव स्यात्, वीणाग्रहणमनर्थकं स्यात्। अनुपसर्गात् सामान्येन विधानाद्वीणायामपि प्रत्ययः सिद्धः॥
तत्त्व-बोधिनी
क्वणो वीणायां च १५४६, ३।३।६५

क्वणो। "निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि। वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः" इत्यमरः।