पूर्वम्: ३।३।६
अनन्तरम्: ३।३।८
 
सूत्रम्
लिप्स्यमानसिद्धौ च॥ ३।३।७
काशिका-वृत्तिः
लिप्स्यमानसिद्धौ च ३।३।७

विभाषा इत्येव। लिप्स्यमानात् सिद्धिः लिप्स्यमानसिद्धिः। लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोः विभाषा लट् प्रत्ययो भवति। अकिंवृत्तार्थो ऽयम् आरम्भः। यो भक्तं ददाति स स्वर्गं गच्छति, यो भक्तं दास्यति स स्वर्गं गमिष्यति, यो भक्तं दात स स्वर्गं गन्ता। लिप्स्यमानाद् भक्तात् स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति।
न्यासः
लिप्स्यमानसिद्धौ च। , ३।३।७

लिप्सायामेव सत्यां सम्भवति, नासत्याम्। अतो यत्र लिप्स्यमानसिद्धिर्गम्यते तत्रावश्यं लिप्सया भवितव्यम्, तथा च पूर्वेणैव सिद्धम्, तत्किमर्थोऽयमारम्भ इत्यत आह-- "अकिंवृत्तार्थोऽयमारम्भः"इति। यद्येवम्, पूर्वसूत्र एव किंवृत्तग्रहणमकृत्वा प्रत्ययो विदेयः, एवं हीदं नारब्धव्यं भवति? नैतदस्ति; एं हि यथा लिप्स्यमानसिद्धौ गम्यमानायां किंदृत्तं चाकिंवृत्तं च भवति तथा यत्रापि लिप्स्यमानसिद्धिरहितं लिप्स्यमानं गम्यं तत्रापि स्यात्। किंवृत्त एव तत् तत्रेष्यते, तस्मात् पूर्वयोगे किंवृत्तग्रहणं कत्र्तव्यम्। त()स्मश्च सतीदमप्यकिंवृत्तारोथमारब्धव्यम्। "दातारं प्रोत्साहयति" इति। भक्तदानविषयेऽस्य प्रोत्साहं जनयतीत्यर्थः॥
बाल-मनोरमा
लिप्स्यमानसिद्धौ च ६१०, ३।३।७

लिप्स्यमानसिद्धौ च। लड्वेति। पक्षे यथाप्राप्तम्। लिप्स्यमानसिद्धौ लिप्सायायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति-- योऽन्नमिति। योऽन्नं ददाति स स्वर्गं याति, योऽन्नं दास्यति स स्वर्गं यास्यति, योऽन्नं दाता स स्वर्गं यातेत्यन्वयः।

तत्त्व-बोधिनी
लिप्स्यमानसिद्धौ च ५०१, ३।३।७

लिप्स्यमान। लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति-- योऽन्नमिति।