पूर्वम्: ३।३।७
अनन्तरम्: ३।३।९
 
सूत्रम्
लोडर्थलक्षणे च॥ ३।३।८
काशिका-वृत्तिः
लोडर्थलक्षने च ३।३।८

लोडर्थः प्रैषादिर् लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः। तत्र वर्तमानाद् धातोः भविष्यति काले विभाषा लट् प्रत्ययो भवति। उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दो ऽधीष्व, अथ त्वं व्याकरणम् अधीष्व। उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम्।
न्यासः
लोडर्थलक्षणे च। , ३।३।८

"प्रैषादि"इति आदिशब्देन विधिनिमन्त्रणामन्त्रणाधीष्टादयो गम्यन्ते। "आगच्छति" इति। "इषुगमियमां छः" ७।३।७७ इति च्छत्वम्। "अध्ययनप्रैषस्य"इति। अध्ययनविषयः प्रैषोऽध्ययनप्रैषः, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। "अथ त्वं छन्दोऽधीष्व " इति। अत्र "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च" ३।३।१६३ इति लोट्। स च प्रैषोऽध्ययनविषयः। तस्योपाध्यायगमनं ह्रपेक्ष्याध्ययने प्रैषतेत्यस्योपाध्यायागमनस्यप्रैषं प्रति निमित्तभावः॥
बाल-मनोरमा
लोडर्थलक्षणे च ६११, ३।३।८

लोडर्थलक्षणे च। लोडर्थः प्रैषादिरिति। "विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु" इत्यनुवृत्तौ "लोट् चे"ति लोड्विधानादिति भावः। कृष्णश्चेदिति। कृष्णबोजनकाले त्वं गाश्चारयेत्यर्थः। अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्, परिच्छेदकमिति यावत्। पक्षे लुट्लृटाविति। कृष्णश्चेद्भोक्ता, भोक्ष्यते वा, त्वं गाश्चारयेत्युदाहार्यम्।

तत्त्व-बोधिनी
लोडर्थलक्षणे च ५०२, ३।३।८

लोडर्थ। लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः। कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्। भोजनकाले गोचारमं त्वया कर्तव्यमित्यर्थः। पक्षे लुडिति। कृष्णश्चेद्भोक्ता, कृष्णश्चेद्भोक्ष्यते, त्वं गाश्चारयेत्यर्थः।