पूर्वम्: ३।३।७०
अनन्तरम्: ३।३।७२
 
सूत्रम्
प्रजने सर्तेः॥ ३।३।७१
काशिका-वृत्तिः
प्रजने सर्तेः ३।३।७१

सर्तेः धातोः प्रजने विषये अप् प्रत्ययो भवति। घञो ऽपवादः। प्रजनं प्रथमं गर्भग्रहणम्। गवाम् उपसरः। पशूनाम् उपसरः। स्त्रीगवीषु पुंगवानाम् गर्भाधानाय प्रथमम् उपसरणम् उच्यते।
न्यासः
प्रजने सर्त्तेः। , ३।३।७१

तत्त्व-बोधिनी
प्रजने सर्तेः १५४९, ३।३।७१

प्रजने सर्तेः। प्रजननं प्रजनः। भावे घञ्। "जनिवध्यो"रिति वृद्धिनिषेधः। प्रशब्दबलादत्र जनेरर्थान्तरत्वम्। प्रतिष्ठते इत्यत्र प्रादुर्भावो यथा। तदेतदाह-- पर्थमगर्भग्रहणमिति। काशिकानुरोधेनेदमुक्तम्। प्रथमं द्वितीयं वेत्यनाग्रहः, किन्तु गर्भग्रहणमित्यन्ये।