पूर्वम्: ३।३।७१
अनन्तरम्: ३।३।७३
 
सूत्रम्
ह्वः सम्प्रसारणं च न्यभ्युपविषु॥ ३।३।७२
काशिका-वृत्तिः
ह्वः सम्प्रसारणं च न्यभ्युपविषु ३।३।७२

नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेः धातोः सम्प्रसारणम् अप् प्रत्ययः च। घञो ऽपवादः। निहवः। अभिहवः। उपहवः। विहवः। एतेषु इति किम्? प्रह्वायः।
न्यासः
ह्वः सम्प्रसारणञ्च न्यभ्युपविषु। , ३।३।७२

"निहवः"इति। "ह्वेञ् {स्पर्धायां शब्दे च--धा।पा} स्पद्र्धायाम्" (धा।पा।१००८)। सम्प्रसारणे कृते गुणावादेशौ। जुहोतेरेव निप्रभृत्युपसर्गपूर्वस्य "निहवः"इत्यादिके रूपचतुष्टये सिद्धे सति ह्वयसेर्निप्रभृतिपूर्वस्य घञ्()निवृत्त्यर्थमेवैतद्ववचनम्॥