पूर्वम्: ३।३।७२
अनन्तरम्: ३।३।७४
 
सूत्रम्
आङि युद्धे॥ ३।३।७३
काशिका-वृत्तिः
आङि युद्धे ३।३।७३

आङि उपपदे ह्वयतेर् धातोः सम्प्रसारणम् अप् प्रत्ययश्च भवति युद्धे ऽभिधेये। आहूयन्ते ऽस्मिनित्याहवः। युद्धे इति किम्? आह्वायः।
न्यासः
आङि युद्धे। , ३।३।७३

"आह्वायः"इति। "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्॥