पूर्वम्: ३।३।८४
अनन्तरम्: ३।३।८६
 
सूत्रम्
उपघ्न आश्रये॥ ३।३।८५
काशिका-वृत्तिः
उपघ्न आश्रये ३।३।८५

उपपूर्वात् हन्तेः अप् प्रत्ययः उपधालोपश्च निपात्यते आश्रये ऽभिधेये। आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति। पर्वतोपघ्नः। ग्रामोपघ्नः। आश्रये इति किम्? पर्वतोपघात एव अन्यः।
न्यासः
उपघ्न आश्रये। , ३।३।८५

"आश्रयशब्दः" इत्यादि। आश्रयणमाश्रयः = सेवा। सा च यत्र प्रत्यासत्तिस्तत्र भवतीत्याश्रयः प्रत्यासत्तिसहचरः।तस्मादाश्रयशब्दः सामीप्यं प्रत्यासत्तिमुपलक्षयति; तदर्थस्य प्रत्यासत्तिसाहचर्यात्। "पर्वतोपघ्नः" इति। पर्वतसमीपभूतोऽर्थ उच्यते॥