पूर्वम्: ३।३।८५
अनन्तरम्: ३।३।८७
 
सूत्रम्
संघोद्घौ गणप्रशंसयोः॥ ३।३।८६
काशिका-वृत्तिः
सङ्घौद्घौ गणप्रशंसयोः ३।३।८६

समुदोः उपपदयोः हन्तेः धातोः अप् प्रत्ययो भवति, टिलोपः घत्वं च निपात्यते, यथासङ्ख्यं गणे ऽभिधेये, प्रशंसायां गम्यमानायाम्। सङ्घः पशूनाम्। उद्घो मनुष्यः। गणप्रशंसयोः इति किम्? सङ्घातः।
न्यासः
सङ्घोद्वघौ गणप्रशंसयोः। , ३।३।८६

"सङ्घोद्()घौ" इति। संहननं सङ्घः। उत्कटं हन्यते ज्ञायत इति उद्घः। कर्मण्यप्। कथं पुनर्हन्तिज्र्ञाने वत्र्तते? गत्यर्थत्वात्। सर्वेषां गत्यर्थानां धातूनां ज्ञानार्थत्वात्॥
तत्त्व-बोधिनी
सङ्घोद्धौ गणप्रशंसयोः १५५२, ३।३।८६

सङ्घोद्धौ। "मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवचकान्यमूनि" इत्यमरः।