पूर्वम्: ३।३।८६
अनन्तरम्: ३।३।८८
 
सूत्रम्
निघो निमितम्॥ ३।३।८७
काशिका-वृत्तिः
निघो निमितम् ३।३।८७

निघः इति निपूर्वाद् हन्तेः अप् प्रत्ययः, टिलोपो घत्वम् च निपात्यते, निमितं चेदभिधेयं भवति। समन्तात् मितं निमितम्, समारोहपरिणाहम्। निघाः वृक्षाः। निघाः शालयः। निमितम् इति किम्? निघातः।
न्यासः
निघो निमितम्। , ३।३।८७

समन्तान्मितमिति ननिमितशब्दः। सर्वत आरोहतः परिणाहतश्च तुल्यमित्यर्थः। एकमेवार्थं प्रसिद्धतरेण दर्शयितुमाह-- "समारोहपरिणाहौ यस्य तत् तथोक्तम्। आरोहः = उच्छ्रायः। परिणाहः = विस्तारः। "निघा वृक्षाः"इति। निविशेषमं हन्यन्ते ज्ञायन्त इति निघाः। कर्मण्यपि समन्तात् तुल्या इत्यर्थः। एवं ते निर्विशेषं ज्ञायन्ते यदि समन्तादारोहतः परिणाहतश्च तुल्या भवन्ति॥