पूर्वम्: ३।३।९२
अनन्तरम्: ३।३।९४
 
सूत्रम्
कर्मण्यधिकरणे च॥ ३।३।९३
काशिका-वृत्तिः
कर्मण्यधिकरणे च ३।३।९३

घोः इत्येव। कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति अधिकरणे कारके। जलं धीयते अस्मिनिति जलधिः। शरधिः। अधिकरनग्रहणमर्थान्तरनिरासार्थम्। चकारः प्रत्ययानुकर्षणार्थः।
न्यासः
कर्मण्यधिकरणे च। , ३।३।९३

कर्माधिकरणयोः सप्तम्या भेदेन निर्देशान्नोभयोरुपपदत्वम्, नापि प्रत्ययार्थत्वम्, तस्मात् किञ्चित् तत्रोपपदम्, किञ्चित्प्रत्ययार्थः। कर्म उपपदम्, अधिकरणं प्रत्ययार्थः। एष तु विभागो व्याख्यानास्लक्ष्यदर्शनाच्च विज्ञात इत्याह--"कर्मण्युपपदे इत्यादि। अथाधिकरणग्रहणं किमर्थम्, यावता "अकत्र्तरि च कारके" (३।३।१९) इत्यस्यानुवृत्तेरेवाधिकरणे प्रत्ययो लभ्यते? इत्याह-- "अधिकरणग्रहणम्" इत्यादि। असति ह्रधिकरणग्रहणेरऽर्थान्तरेऽपि भावे करणादौ कारके प्रकृतप्रत्ययः स्यात्, तस्मात् तन्निवृत्त्यर्थमधिकरणग्रहणम्॥