पूर्वम्: ३।४।९९
अनन्तरम्: ३।४।१०१
 
प्रथमावृत्तिः

सूत्रम्॥ इतश्च॥ ३।४।१००

पदच्छेदः॥ इतः ६।१ नित्यं ? ङितः ? लोपः ? लस्य ?

अर्थः॥

ङित्-लकार-सम्बन्धिनः इकारस्य नित्यं लोपः भवति

उदाहरणम्॥

अपचत्, अपचन्, अपचम्। अपाठीत्
काशिका-वृत्तिः
इतश् च ३।४।१००

ङितः इत्येव। ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेषु इत्येव, अपचावहि, अपचामहि।
लघु-सिद्धान्त-कौमुदी
इतश्च ४२६, ३।४।१००

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥
बाल-मनोरमा
इतश्च ५६, ३।४।१००

इतश्च। लस्येत्यधिकृमतम्। "इतश्च लोपः परसमैपदेष्वि"त्यस्माल्लोप इति, परस्मैपदेष्विति चानुवर्तते। परस्मैपदष्वित्येततत्षष्ठ()आ विपरिणम्यते। तदाह-- ङितो लस्येत्यादिना। अलोऽन्त्यस्येत्यन्त्यस्य लोपः। तदाह--अभवदिति। अभवतामिति। लङस्तस्तामादेशः। शप् गुणावादैशौ। अट्। अभवन्निति। झेरन्तादेशः। शप् गुणावादेशौ।अट्। "इतश्चे"तीकारलोपः। तकारस्य संयोगान्तलोपः। अभव इति। सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ। अभवतमिति। थसस्तमादेशः। शप्। गुणावदेशौ। अट्। अभवतेति। थस्य तादेशे शपि गुणे अवादेशेऽटि। अभवमिति। मिपोऽमादेशे शपि गुणेऽवादेशे पूर्वरूपम्। अभवावेति। वसि शपि गुणावादेशौ। अट्। "अतो दीर्घो यञी"ति दीर्घः। "नित्यं ङित" इति सकारलोपः। एवं मसि अभवामेति रूपम्। इति लङप्रक्रिया।

तत्त्व-बोधिनी
इतश्च ४१, ३।४।१००

"इतश्च लोपः" इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठ()एकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते। तदाह-- परस्मैपदमिकारान्तं यत्तस्येति। प्राचा तु "परस्मैपदेष्विकारस्य लोपर" इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः। ननु "अतो येयः" इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिः "इतश्चे"ति तपरकरणात्। अत एव अबोभवीदित्यादावपि न दोष इति चेत्। मैवम्। करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥