पूर्वम्: ३।४।१०२
अनन्तरम्: ३।४।१०४
 
सूत्रम्
यासुट् परस्मैपदेषूदात्तो ङिच्च॥ ३।४।१०३
काशिका-वृत्तिः
यासुट् परस्मैपदेसु उदात्तो ङिच् च ३।४।१०३

लिङः इत्येव। परसमैपदविषयसय् लिङो यासुडागमो भवति, स च उदात्तो भवति ङिच् च। सीयुटो ऽपवादः। आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां सम्भवाद्, न आगमस्य। कुर्यात्, कुर्याताम्, कुर्युः। स्थनिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम्, लकाराश्रयङित्त्वम् आदेशानां न भवति इति। अचिनवम्। अकरवम्।
लघु-सिद्धान्त-कौमुदी
यासुट् परस्मैपदेषूदात्तो ङिच्च ४२८, ३।४।१०३

लिङः परस्मैपदानां यासुडागमो ङिच्च॥
न्यासः
यासुट् परस्मैपदेषूदात्तो ङिच्च। , ३।४।१०३

"परस्मैपदविषयस्य" इति। एतेन "परस्मैपदेषु" इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयति, न परसप्तमीत्वम्। परसप्तमीत्वं तु न सम्भवति; लिङः परस्मैपदानामसम्भवात्। "आगमानुदात्तत्वे प्राप्ते" इति। कुतः पुनरागमानुदात्तत्वं भवतीति निश्चितम्? अत एव यासुट उदात्तवचनात्। यदि ह्रागमा अनुदात्ता न स्युस्तदोदात्तवचनमनर्थकं स्यात्; प्रत्ययभक्तत्वेनैव यासुटः प्रत्ययस्वरेणैवाद्युदात्तस्य सिद्धत्वात्। ननु यानि पिद्वचनानि तदर्थमुदात्तवचनं स्यात्, तेषां ह्रनुदात्तत्वात् तद्भक्तो यासुडनुदात्त एव स्यात्, यद्युदात्त इति नोच्येत? नैतदस्ति;यद्येतत् प्योजनमभिमतं स्यात्, अपिदित्येवं ब्राऊयात्। तदैतदुदात्तवचनमागमानुदात्तस्य ज्ञापकमेव। "तत्र ङित्कार्याणामसम्भवात्" इति। न सर्वेषामित्यभिप्रायः। कुत एतत्? यावता "उष्यात्" इत्यत्र ग्रहिज्यादिसूत्रेण ६।१।१६ यत्सम्प्रसारणं तत् यासुट()यि ङिति सम्भवति। ङिन्मात्निबन्धनं हि सम्प्रसारणम्; विशेषानुपादानात्। तत्र यदि यासुटो ङित्त्वं विधीयेत तदा ग्रहेः सम्प्रसारणस्यैवेकस्यानुग्रहः स्यात्। लिङस्तु ङित्वे विधाने सर्वस्य ङित्कार्यस्य गुणवृद्धिप्रतिषेधादेवानुग्रहो भवतीति लिङ एव ङित्त्वं विधीयते। "ङित्कार्याणाम्" इति। ङिति कार्याणामित्यर्थः। "कुर्यात्" इति। विकरणाश्रयो धातोर्गुणः, "अत उत् सार्वधातुके" ६।४।११० इत्युत्वम्, "ये च" ६।४।१०९ इत्युकारलोपः। "कुर्युः" इति। "उस्यपदान्तात्" ६।१।९३ इति पररूपत्वम्। "अचिनवम्" इति। मिपोऽम्। अत्र ङित्त्वाभावाद्गुणः। एतच्च ज्ञापकस्य प्रयोजनम्॥
बाल-मनोरमा
यासुट् परस्मैपदेषूदात्तो ङिच्च ५८, ३।४।१०३

अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते--यासुट् पर। "लिङ सीयु"डित्यतो लिङ इत्यनुवर्तते। षष्ठ()र्थे सप्तमी। तदाह--लिङः परस्मैपदानामिति। सीयुटोऽपवादः। यासुटि टकार इत्, उकार उच्चारणार्थः। टित्त्वात्तिबादीनामाद्यवयवः। अवयवे ङित्त्वं च "आनर्थक्यात्तदङ्गेषु" इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति। "आगमा अनुदात्ता" इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम्। इदमेव वचनम् "आगमा अनुदात्ता" इत्यत्र ज्ञापकमिति भाष्यम्। स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम्। ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्()व्यर्थः। न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः, "घुमास्थागापाजहातिसां हली"ति क्ङिति विहितस्य ईत्वस्य "न ल्यपी"ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह-- ङित्त्वोक्तेरिति। क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति। यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः। तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः। ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः। अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात्। ननु "क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध" इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम्। अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्()सिप्()मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्()मिपां ङित्त्वं स्थानिवत्त्वलभ्यम्। "हलश्श्नश्शानज्झा"विति सूत्रभाष्ये "ङिच्च पिन्न पिच्च ङिन्ने"ति प्रपञ्चितत्वादित्यस्वरसादाह--श्नः शानचः शित्तवमपीह लिङ्गमिति। इह--अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः-- श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं--ज्ञापकमित्यर्थः। अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्()वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः। अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम्

तत्त्व-बोधिनी
यासुट् परस्मैपदेषूदात्तो ङिच्च ४३, ३।४।१०३

क्वचिदिति। ज्ञापनफलं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इति "टिड्ढे"ति सूत्र एवोक्तम्। "रुया"दित्यादौ "उतो वृद्धिर्लुकि हली"ति न प्रवर्तते, भाष्ये "पिच्च ङिन्न, ङिच्च पिन्ने"ति व्याख्यानाद्विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधादित्यदादौ वक्ष्यमाणतया यासुतटो ङित्त्वं न ज्ञापकमित्यपरितोषादाह-- श्नः शानचः शित्त्वमिति॥