पूर्वम्: ३।४।१०३
अनन्तरम्: ३।४।१०५
 
सूत्रम्
किदाशिषि॥ ३।४।१०४
काशिका-वृत्तिः
किदाशिसि ३।४।१०४

आशिषि यो लिङ्, तस्य यासुडागमो भवति, स च उदात्तः किद्वद् भवति। प्रययस्य एव इदं कित्त्वम्, न आगमस्य, प्रयोजनाभावात्। ङित्त्वे प्राप्ते कित्त्वम् विधीयते। गुणवृद्धिप्रतिषेधः तुल्यः, सम्प्रसारणम्, जागर्तेर् गुणे च विशेषः। इष्यत्, इष्यास्ताम्, इस्यासुः। जागर्यात्, जागर्यास्ताम्, जागर्यासुः। आशिषि इति किम्? वच्यात्। जागृयात्।
लघु-सिद्धान्त-कौमुदी
किदाशिषि ४३४, ३।४।१०४

आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥
न्यासः
किदाशिषि । , ३।४।१०४

"प्रत्ययस्यैवेदं कित्त्वम्" इति। यद्येवम्, आशिषि लिङ् विहितस्तस्य यासुट् किद्भवतीत्येतद्विरुध्यते? नास्ति विरोधः; यासुड्()वचनं लिङ एवोपलक्षणम्। तेन लिङवयवद्वारेण लिङ एव कित्त्वमनेन विधीयते; यासुडवयवत्वाल्लिङः। "नागमस्य" इति। "नागमस्य" इति। अत्रापि नागमात्रस्येत्येषोऽर्थो वेदितव्यः। "प्रयोजनाभावात्" इति। न सर्वस्य कित्त्वप्रयोजनस्याभावादिति भावः। कुतः? वाच्यादिसूत्रेण ६।१।१५ यद्वचिस्वप्योः सम्प्रसारणं तस्य यासुट()पि किति सम्भवात्। किन्मात्रे हि सम्प्रसारणमुच्यते, विशेषापरिग्रहात्। यदि गुणवृद्धिप्रतिषेधस्तुल्य एवेति कस्तर्हि ङित्वात् कित्त्वस्य विशेषो येन तस्मिन् प्राप्ते कित्तवं विधीयेत? इत्याह-- "सम्प्रसारणम्" इत्यादि। ङित्वे वच्यादिसूत्रेण ६।१।१५ किति दिधीयमानं सम्प्रसारणं न स्यात्। "जाग्रोऽविचिण्णल्ङित्सु" ७।३।८५ इति विधीयमानो गुणः। "इष्यात्" इति। "स्कोः संयोगाद्योरन्ते च" ८।२।२९ इति सकारलोपः। "वच्यात्" इति। कित्वाभावाद्वचेः सम्प्रसारणं न भवति। "जागृयात्" इति। पूर्वसूत्रेण ङित्वम्, तेन गुणो न भवति। उभयत्रादादिकत्वाच्छपो लुक्॥
बाल-मनोरमा
किदाशिषि ६४, ३।४।१०४

किदाशिषि। "लिङः सीयु"डित्यतो लिङ इत्यनुवर्तते। "यासुट् परस्मैपदेष्वि"त्यतो यासुडिति च। तदाह--आशिषि लिङ इति। "यासुट् परस्मैपदेष्वि"ति ङित्त्वस्यापवादः। यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापि "इज्या"दित्यादौ "वचिस्वपियजादीनां किती"ति संप्रसारणार्थं कित्तवमावश्यकमिह न्याय्यत्वादुपन्यस्तम्। अथ आशिषि लिङस्तिप्याद्र्धधातुकत्वाच्छबभावे "इतश्चे"तीकारलोपे यासुटागमेऽतः परत्वाऽभावात् सार्वधातुकात्वाऽभावाच्च इयादेशाऽभावे सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह-- स्कोरिति लोप इति। "लिङसलोप" इत्यस्य सार्वधातुकविषयत्वात्स्कोरिति सुः पदान्तसंयोगादित्वाल्लोपः। ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः, न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तं, तथा सति झल्पसंयोगादिलोपस्याऽसिद्धत्वेन संयोगान्तलोपापत्तेः। भ्रष्ट इत्यादौ सावकाशस्यझल्परसंयोगादिलोपस्य संयोगान्तलोपाऽबाधकत्वादिति शब्दरत्ने विस्तरः। एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम्। तत्र "सार्वधातुकाद्र्धधातुकयो"रिति गुणे प्राप्ते।

तत्त्व-बोधिनी
किदाशिषि ४९, ३।४।१०४

ङित्त्वेनैव गुणवृद्धिप्रतिषेधेसिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थं, जागर्यादित्यत्र गुणार्थं च। जागर्तेर्गुणो हि ङिति पर्युदस्यते, ङित्त्वं चेह विशेषविहितेन कित्त्वेन बाध्यते। सलोप इति। झल्परसंयोगादित्वेन यासुटः सस्य लोपः, सुटस्तु पदान्तसंयोगादित्वेनेति भाव मनोरमायां स्थितं, तदसंबद्धमिति मत्वाऽत्र निष्कर्षमाहुः-- भूयास्तां, भूयास्तं, भूयास्तेत्यत्र झस्पसंयोगादित्वेन यासुटः सस्य लोपः। भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव। अन्यथा झस्परसंयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोप एव स्यात्। भृष्ट इत्यादौ सावकाशस्य झस्पसंयोगादिलोपस्य संयोगान्तलोपऽबाधकत्वादिति।