पूर्वम्: ३।४।१०४
अनन्तरम्: ३।४।१०६
 
सूत्रम्
झस्य रन्॥ ३।४।१०५
काशिका-वृत्तिः
झस्य रन् ३।४।१०५

लिङः इत्येव। झस्य लिङादेशस्य रनित्ययम् आदेशो भवति। झो ऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्।
लघु-सिद्धान्त-कौमुदी
झस्य रन् ५२३, ३।४।१०५

लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥
न्यासः
झस्य रन्। , ३।४।१०५

"कृषीरन्" इति। आशिषि लिङ्॥