पूर्वम्: ३।४।११
अनन्तरम्: ३।४।१३
 
सूत्रम्
शकि णमुल्कमुलौ॥ ३।४।१२
काशिका-वृत्तिः
शकि णमुल्कमुलौ ३।४।१२

छन्दसि इत्येव। शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल् कमुलित्येतौ प्रत्ययु भवतः। णकारो वृद्ध्यर्थः। ककारो गुणवृद्धिप्रतिषेधार्थः। लकारः स्वरार्थः। अग्निं वै देवा विभाजं नाशक्नुवन्। विभक्तुम् इत्यर्थः। अपलुम्पं न अशक्नोत्। अपलोप्तुम् इत्यर्थः।
न्यासः
शकि णमुल्कमुलौ। , ३।४।१२

"विभाजमम्" इति। विपूर्वाद्भजेर्णमुल्। "अपलुपम्" इति। "लुप्लृ च्छेदने" (धा।पा।१४३१), कमुल्॥