पूर्वम्: ३।४।१२
अनन्तरम्: ३।४।१४
 
सूत्रम्
ईश्वरे तोसुन्कसुनौ॥ ३।४।१३
काशिका-वृत्तिः
ईश्वरे तोसुन्कसुनौ ३।४।१३

तुमर्थे छन्दसि इत्येव। ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धतोः तोसुन्कसुन्प्रत्ययौ भवतः। ईश्वरो ऽभिचरितोः। अभिचरितुम् इत्यर्थः। ईश्वरो विलिखः। विलिखितुम् इत्यर्थः। ईश्वरो वितृदः। वितर्दितुम् इत्यर्थः।
न्यासः
ई�आरे तोसुन्कसुनौ। , ३।४।१३

अभिचरितोः" इति। चरतेरभिपूर्वात् तोसुन्प्रत्ययः। "विलिखः, वितृदः" इति। लिखतेः, "{उ तृदिर्" धा।पा।}तृदिर् हिंसादानयोः" (धा।पा।१४४६) इत्येतस्माच्च कसुन्॥