पूर्वम्: ३।४।१७
अनन्तरम्: ३।४।१९
 
सूत्रम्
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा॥ ३।४।१८
काशिका-वृत्तिः
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ३।४।१८

छन्दसि भावलक्षणे इति सर्वं निवृत्तम्। अलम् खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोः धातोः क्त्वा प्रत्ययो भवति प्राचाम् आचार्याणां मतेन। अलं कृत्वा। खलु कृत्वा। अलं बाले रुदित्वा। अलंखल्वोः इति किम्? मा कार्षीः। प्रतिषेधयोः इति किम्? अलङ्कारः। प्राचांग्रहणं विकल्पार्थम्। अलं रोदनेन। वासरूपविधिश्चेत् पूजार्थम्।
लघु-सिद्धान्त-कौमुदी
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ८८१, ३।४।१८

प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात्। प्राचां ग्रहणं पूजार्थम्। अमैवाव्ययेनेति नियमान्नोपपदसमासः। दो दद्घोः। अलं दत्त्वा। घुमास्थेतीत्त्वम्। पीत्वा खलु। अलंखल्वोः किम्? मा कार्षीत्। प्रतिषेधयोः किम्? अलंकारः॥
न्यासः
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा। , ३।४।१८

"प्रतिषेधवाचिनोः" इति। प्रतिषेधयोरित्यस्येदं विवरणम्।एतेन प्रतिषेधवाचित्वादलंखलुशब्दौ सूत्रे प्रतिषेधशब्देनोक्ताविति दर्शयति। भवति हि तद्वाचित्वात्ताच्छब्द्यम्; यथा-- "क्षुद्रजन्तवः" २।४।८ इति, तत्र क्षुद्रजन्तुवाचित्वाद्यूकालिक्षादयः शब्दाः क्षुद्रजन्तुशब्देनोक्ताः। "अलङ्कारः" इति। भावे घञ्। भूषणवचनोऽत्रालंशब्दः। "अलं वाले रोदनेन" इति। भावे ल्युट्। "वासरूपविधिरिति चेत्" इति। विनापि प्राग्ग्रहणेन विकल्पो लभ्यत एव। यस्मादसरूपोऽपवादो बाधको भवतीत्येवं चेन्मन्यसे,एवं तर्हि प्राग्ग्रहणम्, पूर्वं स्त्र्यधिकारात्। परेण वासरूपविधिर्नास्तीति चेतसि कृत्वा विकल्पार्थं प्राग्ग्रहणमुक्तम्॥
तत्त्व-बोधिनी
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा १५८५, ३।४।१८

अलंखल्वोः। पूजार्थमिति। ननु विकल्पार्थमेवास्तु, अलं रुदित्वा अलं रोदनेनेति रूपद्वयसिध्यर्थमिति चेन्मैवम्। वासरूपन्यायेनैतत्सिद्धेः। न च "क्तल्युट् तुमुन्खलर्थेषु" वाऽसरूपविधिर्ने"ति सिद्धान्ताल्ल्युटि वासरूपन्यायो अस्तीति वाच्यं, "क्तल्यडादयोऽपवादभूताः स्वबाध्यं नित्यं बाधन्ते" इति हि तस्य निष्कृष्टोऽर्थः। इह तु ल्युटोऽपवादः क्त्वेति वैषम्यात्। ननु "प्रैषादिषु कृत्याश्चे"ति वचनेन स्त्र्यधिकारादूध्र्वं वासरूपवधिर्नावश्यमस्तीति ज्ञापितमिति चेत्कं ततः?। "ज्ञापकसिद्धं न सर्वत्रे"तीष्टानुरोधेन तदभ्युपगमे बाधकाऽभावात्। अलं दत्त्वेति। अपात्रे न देयमिति फलितोऽर्थः।