पूर्वम्: ३।४।२६
अनन्तरम्: ३।४।२८
 
सूत्रम्
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥ ३।४।२७
काशिका-वृत्तिः
अन्यथाएवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ३।४।२७

कृञः इत्येव। अन्यथादिषु उपपदेसु कृञो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतेर् भवति। कथं पुनरसौ सिद्धाप्रयोगः? निरर्थकत्वान् न प्रयोगम् अर्हति इति एवम् एव प्रयुज्यते। अन्यथा भुङ्क्ते इति यवानर्थस्तावानेव अन्यथाकारं भुग्क्ते इति गम्यते। अन्यथाकारं भुङ्क्ते। एवङ्कारं भुङ्क्ते। कथङ्कारं भुङ्क्ते। इत्थंकारं भुङ्क्ते। सिधाप्रयोगः इति किम्? अन्यथा कृत्वा शिरो भुङ्क्ते।
लघु-सिद्धान्त-कौमुदी
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ८९०, ३।४।२७

एषु कृञो णमुल् स्यात्। सिद्धोऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ्। व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम्। एवङ्कारम्। कथङ्कारम्। इत्थङ्कारं भुङ्क्ते। सिद्धेति किम्? शिरोऽन्यथा कृत्वा भुङ्क्ते॥
लघु-सिद्धान्त-कौमुदी
इत्युत्तरकृदन्तम् ८९०, ३।४।२७

इति कृदन्तम्॥
लघु-सिद्धान्त-कौमुदी
८९०, ३।४।२७

अथ विभक्तयर्थाः
न्यासः
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्। , ३।४।२७

"सिद्धाप्रयोगः" इति। सिद्धोऽप्रयोगो यस्य स तथोक्तः। "निरर्थकत्वात्" इत्यादि। अभिधेयाभावात् प्रयोजनाभावाद्वा निरर्थकत्वम्। "एवमेव" इति। निरर्थकत्वमेवेत्यर्थः। "अन्यथा भुङ्क्ते" इत्यादिना तदेवानर्थकत्वं चेतसि कृत्वा सिद्धाप्रयोगतां दर्शयति। अन्यथा भुङ्क्ते इति यावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थोऽन्यथाकारं भुङ्क्त इति करोतौ प्रयुज्यमानेऽपि। तस्मादनर्थकः करोतिः। कथं पुनः प्रयुज्यमान एवानर्थको भवति? अन्यथादयएते प्रकारवचनाः, ते यदानुप्रयोगधातोरर्थस् प्रकारमाचक्षते तदा कृञपि तैर्विशेष्यमाणस्तदीयप्रकारमाचष्टे, गचान्यत एवावगत इत्यनर्थको भवति। यद्येवम्, अवगतार्थत्वात् तस्य प्रयोगो न प्राप्नोति? नैवम्; अवगतार्थमपि प्रयोगो दृश्यते-- अपूपौ द्वावानय, पचाम्यहमिति। "अन्यथा कृत्वा शिरो भुङ्क्ते" इत्यत्रान्यथाशब्देन पदान्तरस्य शिरसः प्रकारमाख्यायते। स विना करोतिना नावगम्यते। यदि हि करोतिर्न प्रयुज्येत, भुजिक्रियागत एव प्रकारोऽन्यथालक्षणः प्रतीयतेत, न शिरोगतः। शिरसस्तु भुज्यमानतैवावगम्येत। तस्मान्नात्र करोतिः शिद्धाप्रयोगः॥
तत्त्व-बोधिनी
अन्यथैवङ्कथमित्थंसु सिद्धाऽप्रयोगश्चेत् १६१२, ३।४।२७

व्यर्थत्वादिति। निष्प्रयोजनत्वादित्यर्थः। तदेतद्दर्शयति--इत्थं भुङ्क्त इत्यर्थ इति। इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थः। कथनपरतया कारमिति णमुलन्तस्य निष्फलत्वमुक्तम्, अनतिप्रयोजनत्वात्। विस्तरस्तु मनोरमादावनुसन्धेयः। शिरोऽन्यतेति। इह शिरोऽन्यथा कृत्वौदनादिकं भुङ्क्त इत्यर्थलाभाय करोतेः प्रयोग आवश्यकः। तदभावे तु भुजिक्रियागत एव प्रकारो गम्येत न तु शिरसोऽन्यथाकरणम्, अतः करोतेः प्रयोगार्हत्वमस्तीति णमुलन्तः करोतिरिह न प्रयुज्यत इति भावः।