पूर्वम्: ३।४।२७
अनन्तरम्: ३।४।२९
 
सूत्रम्
यथातथयोरसूयाप्रतिवचने॥ ३।४।२८
काशिका-वृत्तिः
यथातथयोरसूयाप्रतिवचने ३।४।२८

कृञः सिद्धाप्रयोगे इति वर्तते। यथातथशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवति असूयाप्रतिवचने गम्यमाने। यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम् , यथाकारम् अहं भोक्ष्ये, तथाकारम् अहं, किं तवानेन? असूयाप्रतिवचने इति किम्? यथा कृत्वा ऽहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोगे इत्येव, यथा कृत्वा ऽहं शिरो भोक्ष्ये, किं तवानेन।
न्यासः
यथातथयोरसूयाप्रतिवचने। , ३।४।२८

"असूयाप्रतिवचने" इति। असूयाप्रभवं प्रतिवचनमसूयाप्रतिवचनम्। "यद्यसूयन्" इत्यादि। असूयन्निति शत्रन्तमेतत्। कण्ड्वादियगन्तः। अस्य प्रतिवक्तीत्यनेन सम्बन्धः। प्रतिवक्ति = प्रतिभणति, प्रतिवचनं वदातीत्यर्थः। "पृच्छति" इति। सप्तम्यन्तमेतत्। पृच्छति सति यद्यसूयन् = असूयां कुर्वन् प्रतिवक्ति तदा तत्र पृच्छति यत् प्रतिवचनं तदसूयाप्रतिवचनम्। "यथाकारम्" इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनम्। "यथाकारम्" इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनमेतत्। "यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि" इति। नैतदसूयाप्रतिवचनम्। किं तर्हि? तद्व्याख्यानम्॥
तत्त्व-बोधिनी
यथातथयोरसूयाप्रतिवचने १६१३, ३।४।२८

यथाकारमिति। प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम्। अत्रापि वाऽसरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः।