पूर्वम्: ३।४।३०
अनन्तरम्: ३।४।३२
 
सूत्रम्
चर्मोदरयोः पूरेः॥ ३।४।३१
काशिका-वृत्तिः
चर्मौदरयोः पूरेः ३।४।३१

कर्मणि इत्येव। चर्मोदरयोः कर्मणोरुपपदयोः पूर्यतेः णमुल् प्रत्ययो भवति। चर्मपूरं स्तृणाति। उदरपूरं भुङ्क्ते।
न्यासः
चर्मोदरयोः पूरेः। , ३।४।३१

"पूरयतेः" इति। एतेन निर्देशे ण्यन्तस्येदं ग्रहणमित्याचष्टे। इह कर्मणीति वत्र्तते। न चाण्यन्तस्य पूरेः कर्म सम्भवति; अकर्मका हि धातवो ण्यन्ताः सकर्मका भवन्ति। तस्माण्ण्यन्तस्येदं ग्रहणं विज्ञायते॥
तत्त्व-बोधिनी
चर्मोदरयोः पूरेः १६१६, ३।४।३१

चर्मोदर। कर्मणीत्येवेति। एवं च पूरेरिति ण्यन्तस्य निर्देशो, न तु केवलस्य "इक्श्तिपौ" इति इका निर्देशः। तस्याऽकर्मकत्वादिति भावः। चर्मपूरमित्यादि। चर्म पूरयित्वा। उदरं पूरयित्वा उदरपूरणविशिष्टाभुजिक्रियेत्यर्थः। इह पूर्वकाले इति न संबध्यतेऽसंभवात्, अप्रतीतेश्च। एवमन्यत्रापि यथासंभवं बोध्यम्। उदरपूरणविशिष्टाभुजिक्रियेत्यर्थः। इह पूर्वकाले इति न संबध्यतेऽसंभवात्, अप्रतीतेश्च। एवमन्यत्रापि यथासंभवं बोध्यम्।