पूर्वम्: ३।४।३१
अनन्तरम्: ३।४।३३
 
सूत्रम्
वर्षप्रमाण ऊलोपश्चास्यान्यतरास्यम्॥ ३।४।३२
काशिका-वृत्तिः
वर्षप्रमाण ऊलोपश् च अस्य अन्यत्रस्याम् ३।४।३२

कर्मणि इत्येव। पूरयतेः धातोः णमुल् प्रत्यय् भवति, ऊलोपश्च अस्य पूरय्तेरन्यतरस्यां भवति, समुदायेन चेद् वर्षस्य प्रमाणम् इयत्ता गम्यते। गोष्पदपूरं वृष्टो देवः, गोष्पदप्रं वृष्टो देवः। सीतापूरं वृष्टो देवः, सीताप्रं वृष्टो देवः। अस्य ग्रहणं किमर्थम्। उपपदस्य मा भूत्। मूषिकाबिलपूरं वृष्टो देवः, मूषिकाबिलप्रम्।
न्यासः
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्। , ३।४।३२

"समुदायेन" इति। प्रकृतिप्रत्ययोपपदसमुदायेन। एतेन वर्षप्रमाणस्य समुदायोपाधित्वं दर्शयति। "अस्यग्रहणं किमर्थम्" इति। प्रकृतत्वात् पूरयतेः, अस्येति वचनमन्तरेणापि तस्यैव लोपो विज्ञास्यत इत्यभिप्रायः। "उपपदस्य मा भूत्" इति। यद्यस्येति नोच्येत ततो यथा वर्षप्रमाणं समुदायोपाधिर्विज्ञायते, ऊलोपोऽपि तथा समुदायोपाधिर्विज्ञायेत। प्कृतिप्रत्ययोपपदस्य समुदायस्य य ऊकारान्तस्य लोपो भवतीति, ततश्चोपपदस्यापि स्यात्। तस्मात् मा भूदेष दोष इति "अस्य" इत्युच्यते॥
तत्त्व-बोधिनी
जान्तनशां विभाषा १५९८, ३।४।३२

खात्वना। खनित्वेति। "उदितो वे"ति वेट्।