सूत्रम्
समूलाकृतजीवेषु हन्कृञ्ग्रहः॥ ३।४।३६
काशिका-वृत्तिः
समूलाकृतजीवेषु हन्कृञ्ग्रहः ३।४।३६
कर्मणि इत्येव। समूल अकृत जीव इत्येतेषु शब्देषु कर्मसु उपपदेषु यथासङ्ख्यं हन् कृञ् ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति। समूलघातं हन्ति। समूलं हन्ति इत्यर्थः। अकृतकारं करोति। जीवग्राहं गृह्णाति।
न्यासः
समूलाकृतजीवेषु हन्कृञ्ग्रहः। , ३।४।३६
"समूलघातम्" इति। "हो हन्तेर्ञ्णिन्नेषु"
७।३।५४ इति कृत्वम्, "हनस्तोऽचिण्णलोः"
७।३।३२ इति तत्वम्॥