करणे उपपदे हन्तेर् धातोः णमुल् प्रत्ययो भवति। पाणिघातं वेदिं हन्ति। पादघातं भूमिं हन्ति। हिंसार्थानां च समानकर्मकाणाम्
३।४।४८। इति णमुलं वक्ष्यति। अहिंसार्थो ऽयम् आरम्भः। नित्यसमासार्थो वा यथा विध्यनुपर्योगार्थश्च। पूर्वविप्रतिषेधेन हन्तेः हिंसार्थस्य अपि प्रत्ययो ऽनेन एव इष्यते। असिघातं हन्ति। शरघातं हन्ति।
"अहिंसार्थोऽयमारम्भःट इति। हिंसायाम् "हिंसार्थानाम्"
३।४।४८ इति वक्ष्यमाणेन सिद्धत्वा। "नित्यसमासार्थः" इति। हिंसार्थस्यापीति शेषः। "उपपदमतिङ्"
२।२।१९ इति नित्यसमासो यथा स्यादित्येवमर्थोऽयमारम्भः। तेन तु प्रत्यये सति "तृतीयाप्रभृतीन्यन्यतरस्याम्"
२।२।२१ इति विकल्पेन स्यात्। "यथाविध्यनुप्रयोगार्थश्च" इति। "कषादिषु यथाविध्यनुप्रयोगः"
३।४।४६ इति। यस्माद्धातोर्णमुल् विहितस्तस्यैवानुप्रयोगो यथा स्यात्, तेन तु प्रत्यये धात्वन्तर्सयानुप्रयोगः स्यात्।
ननु च यता हन्तिहिंसार्थो भवति तदा परत्वात् तेनैव भवितव्यम्,
तत्कथं नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्च हिंसार्थस्य हन्तेरयमारम्भो युज्यते? इत्यत आह-- "पूर्वविप्रतिषेधेन" इत्यादि॥